________________
558
न्यायमञ्जरी [ पक्षप्रतिपक्षपरिग्रह एव प्रतिज्ञा ] यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते; तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः। यतः विरुद्धो वादः विवादः। एक आह 'नित्यः शब्दः' ; इतरस्तु 'अनित्यः' इत्याह। सोऽयं पक्षप्रतिपक्षपरिग्रहो विवादः प्रतिजैव। स तु पक्षप्रतिपक्षपरिग्रहः तदहरेव भवतु, दिनान्तरे वेति किमनेन विशेषेण। अपरिहार्य प्रतिज्ञावचनमिति* ||
[ पक्षाभासानां प्रतिज्ञात्वासंभवः] . प्रतिजैव च पक्ष इत्युच्यते। तदेवंविधे पक्षलक्षणे प्रदशिते बलात् पक्षाभासाः प्रतिक्षिप्ताः भवन्ति । तद्यथा-'अनुष्णोऽग्निः' इति प्रत्यक्ष विरुद्धः पक्षः। 'न रूपग्राहि चक्षुः' इति अनुमानविरुद्धः ॥ .
शब्दविरुद्धस्तु बहुशाखः-'ब्राह्मणेन सुरा पेया' इत्यगामविरुद्धः । 'जनयित्री मे वन्ध्या' 'पिता मे ब्रह्मचारी' इति धमिधर्मपदयोरेद विप्रतिषेधात् स्ववचनविरुद्ध;। 'न चन्द्रः शशी' इति लोकप्रसिद्धि विरुद्धः॥
उपमानविरुद्धस्तु - 'न गवयपदवाच्योऽयं गोसदृशः' इति । अप्रसिद्धविशेषणः 'नभःकुसुमकृतावतंसः चैत्रः' इति । अप्रसिदधविशेष्यः सुगन्धि गगनकमलम्' इति। अप्रसिधोभयः 'खपुष्पकृतशेखरः वन्ध्या "सुतः इति।
* तथा च पर्वतो वह्निमान्' इति वाक्येनैव पर्वते वह्विज्ञानसंभवेऽपि व्याप्तिव्युत्पादनार्थ इतरावयवानां प्रयोगः ।।
1 तीति-च,
सूनुः-च.