________________
दशमभाहिकम्
539 अपि च विवादादेव प्रतिज्ञार्थों लभ्यते इति किं स्वकण्ठोक्तेन तेन प्रयोजनम् ॥
[प्रतिज्ञावाक्यस्यावश्यकता] उच्यते-स्वप्रतिपत्तिमनुसरता परस्य प्रतिपतिरुत्पादनीयेति स्वप्र. तिपत्तौ प्रथममुपलब्धो धर्मो तावत् आख्येय 'एव। अनुच्य'माने हि धामणि निरधिकरणो हेतुः क्व साध्यं साधयेत्। धमिण्य नवच्छिन्ने च धर्ममात्रेऽनुमानमनर्थकम्, अविवादसिद्धत्वात; अस्ति हि यत्र क्वचित् अनित्यत्वमिति ॥
आश्रयासिद्धश्च धमिनिर्देशाद्विना हेतुर्भवेदिति अवश्यनिर्देश्यो धर्मो ॥
यद्यपि गिमात्रदर्शनमेव प्रथममभूत् ; तथापि कि साधयि तुमेष' हेतुः प्रयुक्तो भवेत् * इत्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः । शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदं अन्धपदमि वा साधनं भवेत् ॥
[उदाहरणादिना प्रतिज्ञाया नान्यथासिद्धिः] .. अथ व्याप्तिप्रदर्शन प्रवणेन रत कृतकं. तदनित्यं दृष्टं' इति दृष्टान्त. वचसा, 'तस्मादनित्यः' इति निगमनवचनेन वा विरंस्यति स उपप्लव इति- 'तथापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमाकाडक्षा'संपादनाय साध्यं निर्देष्टव्यम्। न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङक्षति कश्चिदिति साधनवचनावसरतत्प्रयोगसाफल्योत्पादना. यैव नूनं 'अनित्यः शब्दः' इति प्रतिज्ञावचनं प्रयोक्तव्यम् ।।
* स्वस्य दर्शनमन्यत्, परव्युत्पादनं चान्यत् इत्यर्थः ॥
1 एवानुद्देश्य-ख, H-ख, ३ मः-ख, । व-ख-च-घ, निपु-ख. ' समुत्पा-ख.
'तु-ख,