________________
556
न्यायमञ्जरी [विशेषणस्य स्वविरुद्धधर्ममाव्यावर्तकत्वम् ] ननु ! अत्रापि किमनित्य एव शब्दः', इत्यवधारणम् , उत शब्द एवानित्य इति । तत्र अनित्य एव शब्द इत्युक्ते, तद्गतधर्मान्तरतिरस्कारात्, कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः। शब्द एवानित्यः इति त्ववधार्यमाणे घटादावनित्यत्वप्रतिषेधादन्वयशन्यता हेतोः स्यादिति -नैष दोषः-निरवधारण स्यापि वचनप्रयोगस्य दशितत्वात् । अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्य शेष धर्मान्तरनिषेधस्तत्र विधीयते। किन्तु, तद्विरुद्धनित्यत्वमात्रनिषेध एव -अनित्य एव शब्दः, न नित्य इत्यर्थः। तदुक्तम् (श्लो.वा अनु-55)- .
नियमस्तद्वि 'रुद्धा'च्च कल्प्यते, नाविरोधिनः' इति ॥ तस्मान्न हेतोरसिद्धत्वम् ||
[प्रतिज्ञावाक्यवैयर्थ्यशङ्का] नन् ! साधनवाक्ये प्रतिज्ञावचनमसमंचतम्, असाधनांगवचनत्वात् । हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धेः ते एव वक्तव्ये। न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम। आख्याने वा धमिमात्रमाख्यायताम्। स्वप्रतिपत्तौ हि पूर्व पर्वतादेः शुद्धस्य धर्मिणो ग्रहणम् । सिषाधयिषितहुतवहादिधर्मविशेष रूषितवपुषः एवमभ्युपगमेऽनुमानवैफल्यप्रसङगात् । अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपर्धामनिर्देशकरणम् ॥
* प्रतिज्ञावाक्येनैव पक्षे साध्यसिद्धेः, उपरितनवाक्यानां वैयर्थ्यम् । अयं बौद्धानामाक्षेपः ॥
विशे-च,
पक्षा-च.
1 व-ख, 'पू-च,
यव-च, दू-च.