________________
दशममाह्निकम्
555 [प्रतिज्ञालक्षणस्य दुष्टत्वाक्षेपः ] ननु ! सावधारणत्वाद्वाक्यानां कि साध्यनिर्देश एव प्रतिजेत्यवधारणम् , उत प्रतिजैव साध्यनिर्देश इति ॥
यदि साध्यसिर्देश एव प्रतिज्ञेत्यवधार्यते, तदा यत एक्कारकरणम्, ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते. साध्यनिर्देशं मा 'हासीरि'ति साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यतिव्यापक लक्षणभ* ॥
अथ प्रतिजैव साध्यनिर्देश इत्यवधार्यते, ततः साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति। प्रतिज्ञा त्वनियमितेति साध्यनिर्देशमपहायापिभवेदिति साध्यनिर्देशन प्रतिज्ञाया अव्याप्तत्वात् अव्यापकं लक्षणमितिः ॥
[ उक्तदोषपरिहारः ] तदेतदयुक्तम् । न. हि सर्व वाक्यं सावधारणं भवति । यथा एष पन्थाः स्रुघ्नं गच्छति' इति । न हि तत्र-एष एवेति, स्रुघ्नमेवेति वा गच्छत्येवेति वा नियन्तुं शक्यत इति ॥ : अथापि अवधारणममश्याश्रयणीयं, तद्भवतु-साध्यनिर्देश एवं प्रति. ज्ञति । न चातिव्याप्तिः, प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात् । अनियमितोऽप्यसावन्यत्र न च दृश्यते एवेति। तस्मात् साध्यतिर्देश एव प्रतिज्ञेति स्थितम्। तद्यथा-अनित्यश्शब्द इति। .
* तथा च 'वह्निमान' इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥ + तथा च ‘पर्वतः' इत्यस्यापि प्रतिज्ञात्वं स्यात् ॥ * किन्तु तथा विवक्षायां सत्यामेव ॥ ६ पक्षमन्तरा कथ्यमानस्य तस्य साध्यत्वाभावात् ॥
1 त्याक्षीदि-ख,
च-च.