________________
554
[ पक्षान्तरनिराकरणम् ]
उच्यते - न्यूनता यथाऽवसरं प्रतिसमाधास्यते । आधिक्यमप्ययुक्तम्, 'जिज्ञासादीनां अशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् ॥
तथा हि-अप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा । सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मः न वाक्यावयवः ॥
अर्थक्रियासाधनेऽर्थे विमर्शः संशयः - किमेवमयम्, अयथैवमिति । सोऽपि ज्ञानात्मकत्वान्न वाक्यावयवः ॥
प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्मावना शक्यप्राप्तिः । साऽपि तथैव न वाक्यावयवः ॥
प्रयोजनं संशयितस्य निर्णयः कथं वाक्यावयवतां स्पृशेत् ॥ संशयव्युदासस्तु प्रत्यक्षोपालम्भः । स च वचनस्वभावत्वेऽपि न साधनवाक्यस्यावयवत्वं प्रतिपद्यते ||
तदिमे संशयादयः प्रकरणप्रवृत्तिहेतवो भवन्ति, न वाक्यावयवा इति सूक्तं 'प्रतिज्ञा हेतूदाहरणोपनयनिगमनान्यवयवाः' इति ॥
[ प्रतिज्ञालक्षणम् ]
तेषाम् -
न्यायमञ्जरी
साध्यनिर्देशः प्रतिज्ञा ॥ १-१-३३ ॥
प्रतिज्ञेति लक्ष्यनिर्देशः । साध्यनिदश इति लक्षणम् । शुद्धस्य धर्मिणो वा, * धर्मस्य वा द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य साध्यत्वानुपपत्तेः धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत् । तस्य निर्देश:- परिग्रहवचनं प्रतिज्ञेति ॥
* न हि यत्र कुत्रचित् वह्निः साध्यः ।
ज्ञा-ख,
2
वंख,
किन्तु अधिकरणविशेषे ॥
3 प्र- ख.