________________
दशममाह्निकम्
553 [पदानामपि वाक्यत्वम् ] न च पदानामेवानुमानवाक्यावयवत्वम, अपि तु खण्डवाक्यानाम्' ए'कैके'न पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनं तु एकमपि पदं क्वचिद्भवति-कृतकत्वात्-इति । तदपि वा सविशेषण प्रयुज्यमानं पदस मुदायेनैव । प्रतिपाद्यते-वस्तुत्वे सति कृतकत्वात्इति ॥
. उदाहरणवचनमपि 'घटवत्' इत्यालस्यादेव प्रयुजते । तद्धिं व्यातिप्रदर्शनाय एवं वक्तव्यम्-यत् कृतकं तत् अनित्यं दृष्टं, यथा घट:--- इति ॥ . .
तस्मादवयवानामवयत्वमेव लक्षणं, न पदत्वम् ॥
विभागोऽपि प्रतिज्ञाविपदसन्निधाववयवश्रुतेरेवावगम्यते, प्रतिज्ञादयः पंचावयवाः, न न्यूनाः नातिरिक्ता इति ॥
[भवयवसंख्याविमर्शः]
। ननु अत्र विवदन्ते केिचित् नूनतामवयवानामाचक्षते। व्यवयंवं द्वयवयवं वा साधनवाक्यं वदन्तः ॥ ..
अन्ये तु जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम्, संशयव्युदास इति पंचभिस्सह प्रतिज्ञा दोन दशावयवानाहुः ॥
* वर्णसमुदायस्यैव पदत्वेऽपि एकाक्षराणां 'कः' इत्यादीनां यथा पदत्वम्, तथैव संसर्गविशिष्टार्थबोधकत्वे एकस्य पदस्यपि वाक्यस्वमविरूद्धम् ॥
। केचित्-बौद्धाः। अन्ये-भिमांसकाः॥
__1 के-ख,
'मूहैरेव-च.
दिभिः-च,