________________
552
भ्यायमञ्जरी [ परार्थानुमानस्य प्रमाणत्वम् न चानुवादमात्रं तत् वक्तुरित्युपपद्यते ।
यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ तेनानधिगतार्थोपदेशकत्वात् नानुवादमात्रम् । स्वावगमापेक्षया त्वनु वादत्वे नेदानीमाप्तवचनं अननुवादरूपं किंचिद्भवेत् , सर्वस्य स्वोपल. ब्धिपूर्वकत्वादिति ॥
तस्मात् परार्थानुमानवाक्योपपत्तैः तदेकदेशाः अवयवा युक्ता इति लक्ष्यन्ते । प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवाः ॥ १-१-३२ ॥
एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमाणानामिव–'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति । तत्र अवयवाः, भागाः, अंशाः, एकदेशाः इत्येवं अवयवशब्द: साधनीयार्थप्रतिपत्तिपर्यंन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे ॥
[न्यायस्य वाक्यसमुदायरूपत्वम् ] यद्यपि चैकवदनविनिर्गतानां *निसर्गभङगुराणां अदीर्घायुषां अपरिः हार्यक्रमजन्म नां वर्णानां द्रुमाणामिव पारमार्थिकस्समूहो न समत्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोग मूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समथित इति तद्भागा अपि संभवन्त्येव ॥
___ * वर्णानां वृक्षाणामिव मेलनासंभवहेतवः-निसर्गेत्यादयः ।
।
1 उंद:-ख,
नां-ख,
हरूप:-च,
चू-च,