________________
दशममाह्निकम्
551 वक्त्रान्वमायि स ह्यर्थः नेदानीमनुमीयते । श्रो'तुः स्वार्थानुमानं तत् वाक्यावगतिहेतुकम् ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाऽग्निमवगच्छति । तथा तदीयाद्वचनादिति कस्य परार्थता || आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः । कश्चित्तत्प्रत्ययोपायन्यायमार्गोपदेशक:* || इति ॥
[परार्थानुमानसाधनम् ] सत्यम्-न परमार्थतः परार्थमनुमानमुपपद्यते। किन्तु द्विविधः प्रतिपत्ता । स्वयमवगतयथाप्रकृतलिङगव्याप्तिकः, तद्विपरीतश्च । तत्र स्वयमवधृतप्रतिबन्धं प्रति नोपदिश्यत एवम नुमानम् , स्वत एव तस्य
तीत्युपपत्तेः। अनवधृतव्याप्तिकस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते। तथा हि
वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते। परो मढचंनादेव तमर्थं बुद्ध्यतामिति || किं त्वेनमनमानेन बोधयामीति मन्यते । सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥ किन्तु व्याप्तिमतो लिङगात् स्वयं तत्तु न पश्यति ।
तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते ॥ अतश्च श्रोतुः स्वार्थानुमानमेवेदम्। बक्ता तु तथा परं प्रतिपादयन् परार्थानुमानं प्रयुक्त इत्युच्यते ॥
* अतश्च परार्थानुमान शब्द एवान्तर्भूतम् ॥
* तथा च मानसपरामर्शजनकत्वात्तद्वाक्यसमुदायत्य न तस्य शब्दरूपत्वम् , किन्त्वनुमानरूपत्वम् ॥
1 ज्ञा-च,
. वास्या-च,
' ततः प्र-च,
व-च.