________________
549
दशममाह्निकम्
[पूर्वोक्तव्याख्याननिराकरणम् ] एतत्तु व्याख्यानं न बुद्धयामहे । एवं व्याचक्षाणानामेषां अभ्युपगमसिद्धान्त इति को नु व्यवसित' इति । यदि तावत् अनित्यः शब्द इति द्रव्यत्वगुणत्वादिविशेषरहितः शब्दाख्यधमि निर्देशो यः प्रथममुपात्तः, स एवाभ्युपगमसिद्धान्तः। तत्र अभ्युपागमार्थः कीदृशः, कश्च प्रतितन्त्रसिद्धान्तादस्य विशेषः ॥ - अथास्तु द्रव्यं शब्द इति स्वबुद्धयतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशः अभ्युपगमसिद्धान्तः, तहि सूत्रम्, 'अपरी. क्षिताभ्युपगमात्' इति न योजितम् , अन्यत्रैव तैस्सूत्रार्थो नीत इति* ॥
तस्मादेवं व्याख्यायते-अपरीक्षिताभ्युपगम एव स्वमतिकौशल्येन क्रियमाणः अभ्युपगमसिद्धान्तः-अस्तु द्रव्यं शब्द इति। प्रमाणमूलाभ्यु. पगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेणैव योज्यम्। द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु ; तथापि तस्यानित्यत्वमिति। किल निरवयवं द्रव्यं अनित्य मिति नास्त्येव, शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति || . कथं तहि पंचमी ? कि पंचम्या! वस्तु तावदीदृशं यथा व्याख्यतमस्माभिः ||
[ अभ्युपगमात् इत्यत्र पञ्चम्यर्थः] पंचम्यपि चेत्थं योज्यते। किमर्थं पुनरयमपरीक्षित एव शब्द गतद्र' व्यत्वाभ्युपगमः क्रियत इति पृच्छते उत्तरं पंचम्याऽभिधीयते-यस्मादपरी क्षिताभ्युपगमात तद्विशेषानित्यत्वपरीक्षणमवकल्पते, तस्मादपरीक्षिताभ्यु
* 'अपरीक्षितमभ्युपगग्य' इति सूत्रितव्यं स्यात्तदेत्यर्थः ॥
1 स्थि-ख,
2 मिणि-च.
. त्य-ख,
द्र-ख.