________________
548
भ्यायमञ्जरी र्थान्तराण्यपि सिद्धयन्ति-नाना इन्द्रियाणि, नियतविषयाणि; गुणव्यति रिक्तं द्रव्यं–इत्येवमादीनि ॥
[अभ्युपगमसिद्धान्तनिरूपणम् ] अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणं
अभ्युपगमसिद्धान्तः ॥ १-१-३१ ॥
अत्र 'अपरीक्षिताभ्युपगमात्' इति यथाश्रुतपंचमीनिर्देशमनुरुध्यः मानाः, प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्तः-इति च सामान्य लक्षणमनुसरन्त:* केचित् एवं ज्याचक्षते-मिणः शब्दादेः 'नित्यानि त्यत्वविचारचर्चायां अपरीक्षितस्यैव-आकाशविशेषगुणत्वादिधर्मपरीक्षा. रहितस्यैवाऽभ्युपगमः कर्तव्यः । ततोऽपरीक्षिताभ्युपगमात् कि सिद्धयति?-उच्यते-तद्विशेषपरीक्षणमिति । तद्गतनित्यानित्वत्वपरीक्षणं हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते। यदि पुनराकाशविशेषगणत्वविशिष्टः शब्दः धमित्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति ॥
एवमपि कृते यदि पुरोमिणं विकल्पयेत्-कोदृशस्य सतः' शब्दस्य भवता नित्यत्वं साध्यते-द्रव्यस्य, गुणस्य वेति। स एवं विकल्पयन
अर्थान्तरगमनात्तावत् पराजित एव भवति । जितमप्येनं पुनर्जेतुं स्वं बुद्धचतिशयचिख्यापयिषया, परबुद्धचवज्ञया च वादी ब्रवीति-अस्तु द्रव्यं शब्द इति ॥
अर्थान्तररूपनिग्रहस्थान प्राप्स्येति शेषः । * परस्परविरुद्धौ खलु तावुभौ ॥
1 न-च,
नि-ख,
३ मा-ख