________________
दशममाह्निकम्
547 प्रक्रियत इति प्रकरणं-पक्ष उच्यते। यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिः भवति–सोऽधिकरणसिद्धान्तः, तदधिकरणानामान्तराणां सिद्धः ॥
___ कः पुनः 'यत्सिद्धौ' इति सर्वनाम्ना प्रत्यवमृश्यते, पक्षः हेतुर्वा ?* किंचातः? पक्षः कथं पक्षान्तरसिद्धये कल्पते। हेतुना हि पक्षसिद्धिः क्रियते, न पक्षण हेतोः। हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वणितम्। न्यायो हि हेतुरेव । स एव चाधिकरणसिद्धान्तः। न च हेतुर्हत्वाश्रय इति ॥
. [सिद्धसाध्यभाव आपोक्षिक एव] उच्यते-उभयथाऽप्यदोषः ।-हेतुरपि क्वचित् पक्षीभवति, पक्षोsपि हेतूभवत्येव । तत्र तावदांजस्येन हेत्वधीना पक्षसिद्धिरिति हेतरेव सर्वनाम्नाऽवमश्यते । तत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः ॥
कथं तहिं तदाश्रया न्यायप्रवृत्तिः ? – उच्यते-हेतुरपि तदन्यतरा 'सिद्ध' इव साध्यमानत्वात् पक्षीभवन न्यायान्तराश्रयतां प्रतिपत्स्यते ॥
• अपि वा-पक्ष एव सर्वनाम्नाऽवमृश्यमानः भवत्वधिकरणसिद्धान्तः। स च स्पष्ट एव न्यायस्याश्रयः। स च सिध्यन् पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां भजते || .. तस्योदाहरणं-इन्द्रियव्यतिरिक्तः ज्ञाता, दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति। अत्र इन्द्रियव्यतिरिक्ते ज्ञातरि सिद्धयति, तदनुषङगीण्य
* साध्यं तु साध्यत्वादेव न विकल्पितुमर्हति ।।
1 भिन्न-ख.