SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ 545 दशममाहिकम् तन्त्रसिद्धान्तयोःसूचनम्। इतराभ्यां पदाभ्यां उत्तरयोः अधिकरणभ्यु. पागमसिद्धान्तयोरिति ॥ [एताब्याख्याने न्यूनता]. __एतत्त्तु अपव्याख्यानम्। न ह्येवं सिद्धान्तचतुष्टयानुगतं किचित्सामान्यलक्षणमुक्तं भवति। न चेदं विभागार्थ विशेषसक्षणार्थं वा सूत्रम्, तत्प्रतिपादनस्योत्तरसूत्रः करिष्यमाणत्वात्। उक्तस्य च पुनर्वचने प्रयोजनाभावात्। अतः पूर्वप्रक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः॥ ' [ सिद्धान्तविभागः, लक्षणानि च] तस्य स्वकण्ठन विभागमाहस चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगम संस्थि- . त्यर्थान्तरभावात् ॥ १-१-२६॥ . चतुष्प्रकारो हि सिद्धान्तः-सर्वतन्त्रसिद्धान्तः, प्रतितन्त्रसिद्धान्तः • अधिकरणसिद्धान्तः, अभ्युपगमसिद्धान्त 'इति ॥ .. .तत्र... सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ ___ अत्र तन्त्रशब्देन शास्त्रमुच्चते स्वशास्त्रे य उपदिष्टोऽर्थः, सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः। यथा-चाक्षुषं प्रमाणमिति ॥. ननु अत्रापि विविदन्ते। ब्रह्मवादिनां हि सर्वैवेयं अविद्या। अविद्या च कथं प्रमाणमिति-न-व्यवहारावस्थायां तैरपि तत्प्रामाण्या * संस्थितिपई सामान्यलक्षणानुगमसूचकम् ।। 1 तत्र-ख. 35
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy