________________
544
द्विविधोऽपि दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः । स हि निश्चलः फलनिधेः अनुमानमहातरोः स्कन्धः ॥
- इति दृष्टान्तपरीक्षा
[ अथ सिद्धान्तपरीक्षा ] तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ १-१-२६ ॥
तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते । अधिकरणम्. - आश्रयः । तन्त्रम् अधिकरणं यस्य सः, तन्त्राधिकरणः, प्रमाणमूलक इत्यर्थः । अभ्युपगमः - स्वीकारः, तस्य संस्थितिः इत्थंभावव्यवस्था* धर्मनियमः --- इदमित्थमिति' ; इदमिति सामान्यनिर्देशः इत्थमिति विशेषनिर्देशः । एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः - प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षण. मुक्तं भवति ॥
[ सूत्रव्याख्याने पक्षान्तरम् ]
अन्ये तु व्याचक्षते - तन्त्रम् - इतरेतर संबद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिक्रियते इत्यधिकरणं पक्ष उच्यते । अभ्युपगमः, यथोक्त एव । संस्थितिशब्दः प्रत्येकमभिसंबध्यते । तन्त्रसंस्थितिः: अधिकरणसंस्थितिः, अभ्युपगमसंस्थितिः इत्यनेन तन्त्रनिर्देशसाम्यात् सर्वतन्त्रप्रति
* संस्थितिः अविचाल्यनिर्णयो वा ॥
* तन्त्राभ्युपगमः — शास्त्राश्रित: निर्णयः इत्यर्थो वा ।।
न्यायमञ्जरी
1
म: -ख.