SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ वशमंमाहिकम 543 लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्त लक्षगप्रस्तावा द्वेदितव्यौ। न तु मूर्खपण्डितौ, *प्रकृतासङगतेः। तयोश्च सङगत्यभावात । तयोश्च यस्मिन्नर्थे-भावस्वभावे अभावात्मके वा बुद्धिसाम्य-प्रयोज्यप्रयो. जकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे-साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः। तस्य तथाविधधर्मा. धारत्वं तदेहितत्वं वा 'व क्ष्यमाणादुदाहरणलक्षणान्मन्तव्यम् ॥ । शिष्टमन्यतो ग्राह्यम् ] यथा चानुमानलक्षणे तत्पूर्वक इति प्रतिबन्धग्रहणीपायमात्र प्रतिपादितम् , तत्स्वरूपं तु अवयवलक्षणे निर्णीतं 'उदाहरणसाधात् साध्य साधनं हेतुः' 'तथा वैधात्' इति ; एवमिह वादिप्रतिवादिप्रसिद्धि. मानं दृष्टान्तस्य दशितम्। रूपं तु तस्य द्विविधमपि तत्रैव वक्ष्यते 'साध्यसाधात्तद्धर्म मावी दृष्टान्त उदाहरणम्' 'तद्विपर्ययाद्वा विपरीतम् इति ॥ ___ अनित्यः शब्दः कृतकत्वात् , यत् कृतकं तदनित्यं दृष्टम-यथा घट इति साधर्म्यदृष्टान्तः। यत्पुनरनित्यं न भवति; तत कृतकमपि न भवत्येव -यथाऽऽकाश इति वैधर्म्यदृष्टान्तः। यथोक्तलक्षणवैकल्यात्तु दृष्टान्ता•भासता भवति॥ आभासभेदविभवः कथयिष्यते तुं तेषामुदाहरणलक्षणवाक्प्रसङगै । आभासता वचनदोषंकृताऽपि काचित् अस्तीति साऽवयवलक्षण एंव वाच्या ॥ ___* प्रकृतं खलु न्यायशास्त्रम्। वस्तुतस्तु लोकस्यैव एतच्छास्त्रलक्ष्यत्वात् दृष्टान्तव्यवहारस्य सर्वत्र दर्शनात् लोकव्यवहारेऽपि दृष्टान्त प्रयोगदर्शनात् ऐहिकामुष्मिकपरौ उत्तानगंभीरप्रज्ञपरौ वा लौकिकपरीक्षकशब्दौ ॥ 1 प्रस्तावलक्षणा-ख, ल-ख, ' णा-खः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy