SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ 542 न्यायमञ्जरी कत्वात् । न हि तत् *खपुष्पादिवदसाध्यम्। नापि शिरःपाण्यादिवत् सिद्धमेव। अदि तु साध्यत्वेन बुद्धयुपारूढं तत् प्रवर्तकमि ति सर्वलोकसाक्षिकमेतत् । तस्मात् इच्छाविषयीकृतं तत् प्रवर्तकमिति' युक्तम् ।। इत्थं प्रवर्तकत्वे प्रयोजनस्योपपदिते मुनिना। भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः II प्रयोजनमतोऽखिलैविधिवचोभिरादिश्यते प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः । क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते ॥ वैतण्डिकः प्रयतते निजपक्षसिद्धये "तां चैष वेद परपक्षनिषेधलभ्याम् । तस्मादियं स्वमतसाधनवर्जिताऽपि युक्ता प्रयोजनवती भवितुं वितण्डा । - इति प्रयोजनपरिक्षा - [अथ दृष्टान्तपरीक्षा] लौकिकपरीक्षकानां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः * न हि खपुष्पे कस्यचिदीप्सा भवति । + पूर्व एते पक्षा विचारिता विस्तरेण || 1 ति-ख, नन्वेष-चः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy