________________
541
दशममाह्निकम्
[ फलस्य द्विविधत्वम्, आपेक्षिकत्वं च] तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिः, दुःखपरिहारश्च । तत्साधनं तु गौणम्। सुखसाधनमपि चन्दनधनसार हारम'हिलादि प्राप्तव्यत्वात् मुख्यत्वेन* यदा विवक्षितं भवति, तदा तदवाप्त्युपाये गौणता द्रष्टव्या ॥
तच्च प्रयोजनं देशकालपुरुषशाभेदादव्यवस्थितं भवति । तद्यथा ग्रीष्मे मरुस्थले निशातमलातकनिकरमिव किरति किरणमिषेण पूषणि, तृषातुरस्य तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु काश्मीरेषु श्लेष्मोपचयजनितजडिमजठरशिखिनः खेदाय जायते। तस्यादनियत एवायं सुखदुःखसाधनभावो भावानाम् ॥
यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तम् , अतिक्रान्तं वस्तु तत्-तथापि तज्जांतीयत्वलिङगावधृतसुखसाधनभावे भावान्तरेऽदि प्रवर्तन्त एव तदथिनः ।।
[प्रयोजनस्य प्रवर्तकस्वाक्षेपसमाधाने] ननु ! प्रयोजनस्य प्रवर्तकत्वमयुक्तम् , सदसद्विकल्पाभ्यामनुपपत्तेः। सत्त्वे कर्णनासादिवत्-न तदर्था प्रवृत्तिः। असत्त्वे तु खपुष्पा दिवत् न तराम्-नैष दोषः-ईप्साजिहासाविषयीकृतस्य तस्य प्रवर्त
* अर्थकामावपि हि पुरुषार्थवर्गपरिगणितौ ॥
+ प्रयोजनस्य प्रवर्तकत्वं आक्षिप्य सामाधत्ते-यद्यपीत्यादिना। अस्यैव विवरणमुपरिष्टात् ॥
म-ख,
तं-ख,
क-ख,
नु-ख.