SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ 540 न्यायमञ्जरी माने स्मरणासंभवात् । अतस्तस्यानेकविशेषानुगामित्वात् समानत्वमपरिहार्यम् । अत एव चाक्षिप्तसामान्यवाचिनं समानशब्दं * सामान्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण || इति पंचविधः प्रपंचितः मुनिना दर्शित एष संशयः फलवद्व्यवहारहेतुतां अनुमानाङगता बिभर्ति यः ॥ अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः । बहति व्यवहारवर्तनीं इति पूर्वं च विचारितं बुधैः ॥ इति संशय परीक्षा - [ अथ प्रयोजनपरीक्षा ] यमर्थमधिकृत्य प्रर्वतते तत्प्रयोजनम् ॥ १-१-२४ ।। यमित्यत्र देशकालपुरुष दशा भेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्टव्या । अर्थ :- अर्थ्यमानः उच्यते, न वस्तुरूप एव, अभावस्यापि प्रयो जनत्वसंभवात् । अधिकार :- अर्थस्य व्यवसायः । यं यमर्थं आप्तव्यं हातव्यं वाऽधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते पुरुषः- तत् प्रयोजनमिति ॥ * सामान्यलक्षणे - संशयसामान्यलक्षणे ॥ + अधिकृत्य - इत्यत्रैकदेशः अधिकारः ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy