SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ 538 न्यायमञ्जरी - [विप्रतिपत्तेः संशयजनकत्वम् ] - विरूद्धा प्रतिपत्तिः विप्रतिपत्तिः। अस्त्यात्मेत्येके, नास्त्यात्मेत्यपरे। सेयं विप्रतिपत्तिरूपलभ्यमाना-*विशेषस्मरणद्वारेण संशयमावहति । न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणं, अपि तु विप्रतिपत्तिरेवेति । किं तत्रापि त्रिपद परिग्रहेण लक्षणवर्णनम्, एकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ॥ [उपव्यब्ध्यलवस्थया संशयः1 .. उपलब्ध्यव्यवस्थातः खल्ववपि भवति संशयः। सच्चोदकमुपलभ्यते यथा हृदादिषु। क्वचिदसच्च भास्करकरनिकरप्रतिफलनतरलितासु मरुस्थालीषु। तदेवमुपलब्धख्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः-किमिदं सदुपलभ्यते, किमसदिति ॥ . . [अनुपलब्ध्यव्यवस्थया संशयः ] अनुपलब्ध्यव्यस्थातश्च भवति संशयः। किंचिदसदेव नोपलभ्यते नभःसमादि। किचित्सदपि नोपलभ्यते मृदन्तरितशङकुमूलजलादि । तदन्यत्रानुपलभ्यमाने संशेते पुमान्, किमिदमसदेव नोपलभ्येते, उत सदिति ॥ [अव्यवस्थायाः स्वरूपम् ] अव्यवस्थशब्देनात्र पूर्व पर्यायेण प्रवृत्तसदसदाश्रितविशेषादर्शनं सूचितम् : इदानों पुनः अर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसां * विशेषस्मरणं-कोटिद्वयस्मरणम् ॥ * उपलब्धेख्यवस्था अनुपलब्धौ, अनुपलब्धेरव्यवस्था उपलब्धौ च विश्राम्यतीति अनयोः को भेद इति शङ्कां वारयति-अव्यवस्थेत्यादिना ॥ अ-ख, २ रूप-ख, का-ख;
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy