SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम 331 सन्त्येव। असमवायिकारणं तु चिन्त्यम्। तच्चाकाशाश्रितमवश्यम्। अन्यथा प्रत्यासत्यभावात् । तद्गुणान्तराणां च विभुत्वादीनां अनवधृतशक्तित्वात्। वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनात् एवं मन्यामहे ॥ क्रिया यदैव संयोग हन्ति वंशदलाश्रितम् । तदैव गगने कंचित् करोत्यतिशयं ध्रुवम् ॥ आकाशातिशयो यश्च क्रियाजः श'ब्द कारणम् । असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥ तदेवसेतत् यथागममाचार्यमतमभिहितमस्माभिः ॥ . [ कीदृशो विभागः शब्दहेतुः] . एतच्च मतिम द्धिविचारणीयम्-किमाकाशातिशयमात्रं किंचित् असमवायिकारणम्, उत यथा 'मुद्गर दण्डसंयोगकार्ये शब्दे भेरीगगनसंयोगस्यासमवायिकारणत्वम् , एवं वंशदलविभागकार्ये तस्मिन् दलगगनविभागस्येति । दलाकाशविभागोऽपि कि दलविभागजः, उत कर्मज एवेति ॥ ___ सर्वथा कश्चिदसाधरणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता न प्रयोजनम् ॥ ___ * व्यधिकरणयोः कथ कार्यकारणभावः ॥ शब्दोत्पत्ताविति शेषः ॥ * इदमत्र तत्त्वम्-सिद्धान्ते हि अवयवावयविनावस्यन्तभिन्नौ । संयोगविभागौ च नियमेनाव्याप्यवृत्ती। अतः अवयवसंयोगविभागाभ्यामेवावयविनि तावुपपादनीयौ ॥ 1 क्ति-च, 'स-च अ-ख, भेरी-ख, नकार्य-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy