________________
530
न्यायमञ्जरी [असाधारणधर्मस्य संशयकारणस्वनिरूपणम् ] नैष दोषः-प्रकारान्तरेणास्य स्मृतिहेतुत्वात् । इह हि केषुचित्केषु. चित् असाधारणधर्माधिर्मिषु भवन्तः तद्गतसाधारणध मन्तिरसहचरिता भवन्ति । तद्यथा पृथिवीत्वगन्धत्वादयो धर्माः पृथिव्यामसाधारणास्सन्तः, स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्य त्वसहचारिणो दृष्टाः। रूपादिष रूपत्वादिधर्माः गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः कर्मत्वसहचारिणः। एवं प्रकृतेऽपि धर्मिणि कस्मिश्चिदसाधारणो धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवतीति भवति विशेषानुस्मृतिद्वारेण संशयसाधनम् ॥ [अनेकधर्मस्य समानधर्माद्विशेषः]
. ननु ! एवं तहि व्यावृत्तत्वादेव समानधर्मादेष संशयः, नानेकधर्माः . दिति-मैवम्-अनेकधर्म एवासौ तेन वर्मता विशेषान् स्मारयन् संशयजन्मने कल्पते। 'असति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं स्यादित्यलमति सूक्ष्मेक्षिकया* ॥ ___तस्योदाहरणं भाष्यकारेण दशितं शब्दें विभागजत्वम्। यथा हिं पृथिव्यादौ पृथिवीत्वादिः व्यावृत्तो धर्भः द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्टः एवं शब्दे विभागजत्वं धर्मः के नचित् द्रव्यत्वादीनामन्यतमेन धर्मेण सहचरितः स्यादिति संशयः ॥ शामिति संशयः॥
. [विभागजविभागविमर्शः] - ननु ! विभागजत्वमसाधारणो न भवत्येव शब्दधर्मः, विभागजवि' भागेऽपि भावात्। तथा च प्रयोगः-गुणः शब्दः, विभागजत्वात्'
* मानवबुद्धेरतिविचित्रत्वादेवमपि संभवतीति प्रदर्शनमात्रामिप्रायं तदिति गृह्यतामित्याशयः॥ .
___14-ख,
म-ख,
व-ख, वि-ख,
स-ख,
प्रसंगेन-च-छ,