SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् 529 [संशयसूत्रध्याख्याने पक्षान्तरम् ] अन्ये तु सामान्यलक्षणसम्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यवच्छिन्नलक्षणप्रधितपादननिपुणमनेकधर्मोपपत्ति पद मेव पूर्ववद्वर्णयां. चक्रुः ॥ ननु! अनेकधर्मशब्देन कथमसाधारणो धर्म उच्यते? — एवमुच्यते -समानजातीयमसमानजातीयं चानेकम् । तस्मात्परावृत्तो धर्मः अनेक धर्म इति ॥ ..यद्वा किमनया क्लिष्टकल्पनया! अस्त्ययमेकशब्दः समानपर्यायः । तत्र स्पष्ट एव नसमासेनासमानधर्मः अनेकधर्मः साधारणधर्म उच्यते एवेति ॥ . . [असाधारणधर्मस्य संशयकारणस्वाक्षेपः ] भवत्वेवम् ! असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम्। विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः। विशेषाणां च स्मरणहेतोः संस्कारस्य *तदुद्बोधकं भवति, येन सहते पूर्वं पर्यायणोपलब्धाः । असा. धारणधर्मस्य तु असाधारण धर्मत्वादेव' न केनचित्सह पूर्व ग्रहण मभवत् । भावे तु असाधारणधर्मतैव हीयतेत्यतः कथमसौ तत्स्मृतिहेतुः । व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत, ततो. sपि व्यावृत्तत्वादिति ॥ *शब्दस्वादिः नित्यानित्यव्यावृत्तस्वात् उभयकोट्युपस्थापकः इत्युक्तः, न तु . साक्षात् संशयकारणम् ॥ + स्वध्यतिरिक्तसर्वेभ्योऽपि ॥ 1 मुत्पा-ख, रूप-ख, । दर्शन-ख. स-ख. त्वादेव-च, 34
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy