________________
528
न्यायमञ्जरी रिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते, कारणान्तराणामपि आत्ममनस्यन्त्रिकर्षादीनां अपरिहार्यत्वात् ॥
अथान्या साधारणकारणनिर्देशश्चिकोर्षितः, तेनापि कोऽर्थः ? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्, तस्य च विमर्शपदादेव सिद्ध - त्वात् ॥
[व्याख्यानान्तरस्य क्लिष्टस्वम् ] उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव क्लिष्टमिति, पुनश्च विशेषलक्षणप्रसङगे यथाश्रुतमेव तदव्याख्येयमित्यतिभारः॥
एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्य लक्षणे वागते 'समानधर्मोपपत्तेः' इत्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपायुज्यत इति ॥
अत्र व्याख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् ॥
- [अनेकधर्मोपत्तिपदार्थविवरणम् ] 'अनेकधर्मोपपत्तेः' इत्यत्रापि त्रिपदपरिग्रहणेनैन लक्षणमाचार्या वर्ण. यन्ति। अनेकधर्मोप पत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातो विषेषापेक्ष इत्यसाधारणधर्मग्रहणात् 'विशेषग्रहणात् विशेषस्मृतेश्च संशय इत्यर्थः। एकैकपदोपादानफलं च पूर्ववदत्रापि दर्शयितव्यम्। न चेन्द्रियमनस्सं. योगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां *सर्वबुद्धिजन्मसुतुल्यत्वात् । इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति ॥
* ज्ञानसामान्यकारणत्वात्।।
1 त्राप्य-ख.
लब्धे:-च,
वि-ख,