________________
527
दशममाह्निकम् यांसि भवेयुः-नैतदेवम्-समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशषानुभवपरम्परोपचित पीवरसंस्कार'द्वारकमेक'मेव तद्विषयं स्मरणं भविव्यति-यथा वर्णानामर्थप्रतीतौ वणितम् ।
[विशेषानुपलब्धिः प्रागभावरूपा] उपलब्ध्यनुपलब्ध्यव्यवस्थासूचिता च विशेषानुपलब्धिः अनुपलब्धिरेव, न सा ज्ञानात्मिका, किन्तु ज्ञानानुत्पाद इति तत् तृतीयं कारणमपि भवन्न ज्ञानात्मकमिति द्वे एव ज्ञानात्मके कारणे-समानधर्मग्रहणम् , विशेषस्मरणं च । तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं, विशे - स्मरणं च. द्वितीयमविनश्यदवस्थं संशयमुपजनयतः। ईदृशयोश्च ज्ञानयोः यौगपद्यमविरुद्धमिति शास्त्रे स्थितम् ||
एवं समानधर्मग्रहणात् विशेषाग्रहणात् विशेषस्मृतेश्च संशय इति पदधयेण संशयलक्षणमनवद्यमुच्यत इति ॥
पक्षान्तरेण संशयसूत्रव्याख्यानम् ] - तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते-सामान्य. लक्षणं तावत् विमर्शपदेनैव प्रतिपाद्यते। न हि पर्यायोच्चारणमात्रमिदं विमर्शः संशयः इति । किन्तु संशय इति लक्ष्यपदम, विमर्श इति लक्षण पदम् । प्रमाणपदवच्च निर्वचनसव्यपेक्षम् एतत्पदं लक्षणप्रति. पादनक्षमं भवति। विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा, पुरुषो वेति । इयता च सजातीयसंशयपश्चकानुगतं विजातीतेभ्यः प्रमाणादिभ्यो व्यव. च्चिन्नं सामान्यलक्षणमुक्तं भवति। संशयीत्पादककारणपरिगणनं पुन
* भन्यथा तेषां कुत्रापि कारणस्वं न स्यात् ॥ + प्रमीयते अनेनेति किल तत्र निर्वचनम् ॥
___1 ज-ख;
तृ-च,
ज्ञा-ख,
प्रवणप-ख.