SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ 526 न्यायमञ्जरी अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते। विशेषाणां अपेक्षाआकाङक्षा । ते चानुपलभ्यमानाः पूर्वानुभूताश्च आकाङक्ष्यन्ते इतीयं सा तेषां स्मृतिः। संप्रत्युपलभ्यमानेषु एकान्ताननुभूतेषु वा तेष्वाकाडक्षाऽ. नुपपत्तेः॥ [विशेषाग्रहणस्य संशयकारणस्वम् ] ननु ! समानधर्मोपपत्तेः विशेषस्मृतेश्चेति-कारणद्वयमेवास्तु, किं वशेषाग्रहणेन । अपि च विशेषस्मरणादेव नन्वाक्षिप्तस्त'दाऽ'ग्रहः । ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥ - अस्त्येतत्-किन्तु नातिदूरगतायां निजप्रमदायां अनुरागवतः कामिनः समानधर्मदर्शने, तद्गतविशेषा दर्शने, तदनुस्मरणे च सन्यपि न भवत्येव संशयः। अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यव. हितविशेषाग्रहणसिद्धये पदान्तरमुपादीयते देशान्तरे कालान्तरे वा चिर. दृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणम् , न विशेषाग्रहणमात्रम्। एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् ।। [संशयकारणानां मेलनासंभवपरिहारः] ननु च ! संभूय कारकैः कार्यमारभत इति न्यायात् समानधर्मोपलब्धि-विशेषानुपलब्धि-तत्स्मतिलक्षणकारणत्रयजन्ये संशय ज्ञानयोगपद्य मापद्यते। क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपदव्यापारः समस्ति । विशेषाश्च बहवोऽपि संभवन्तीति तत्स्मरणान्यपि युगपद्भ ज्ञानानां द्विक्षणाक्स्थायित्वात्, अयोगपद्याच ॥ + विशेषाः-वकोटरत्वादयः॥ 1 द-ख, कि-ख, त-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy