________________
525
दशममाह्निकम संशयो जायते। योऽयमूर्ध्वत्वविशिष्टो धर्मो दृश्यते, सः स्थाणुर्वास्यात् , पुरुषोवेति नार्थान्तरत्वं दूषणम् ॥
[संशयकारणान्तरम् ] तथापि वक्रकोटरत्वकरचरणादिविशेषदर्शिनः न दृष्टः संशय इति कारणान्तरमुच्यते-उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । 'विशेषाग्रहणा दित्यर्थः। कथं पुनरुपलब्ध्यनुपलब्ध्यव्यवस्थात इत्यनेन' विशेषाग्रहण. मुच्यते-'इत्थमुच्यते-इदन्तयाऽनिदन्तया वा तत्रोपलब्धिः न व्यवतिष्ठते, अनुपलब्धिर्वा-इति। विशेषग्रहणे हि सति तद्व्यवस्थानं संभवतिस्थाणुरयम्, न पुरुष इति वक्रकोटरादियिशेषग्रहणे। शिरःपाण्यादिपरिच्छेदे तु-पुरुषोऽयम्, न स्थाणुरिति ॥
[ संशयकारणान्तस्म् ] एवमनेनं पदेन, विशेषाग्रहणमुक्तम् । तथापि *प्रेडखारूंढस्य साधारणधर्मशिनः विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणा. न्तरमुच्यते-विशेषापेक्ष इति। विशेषस्मृत्यपेक्ष इत्यर्थः ॥
.
[सौत्रं विशेषपदं विशेषस्मृतिपरम् ] ननु ! विशेषापेक्ष इति श्रूयते, न विशेषस्मृत्यपेक्ष इति-सत्यम्अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते। स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावपेक्षा, नानभूयमानतया; अनुभूयमानेषु हि तेषु संशयच्छेदो भवति, न संशयः ॥
___* डोलायमानास्थितिमारूढस्य ॥
1 अनेन-ख,
ई-च.