SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ 524 न्यायमञ्जरी तयैवैकत्र सन्निधानाभावात्। अतः स्मृत्युपारूढानाम् अवमर्शनम् । स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तम, तद्दर्शनसंस्कारप्रबोधद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम् । 'तत्तु' अनुगतं वा भवतु, व्यावृत्तं वा, विप्रतिपत्त्यात्मक वा, आन्तरम् उपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामान्यवाचिनि समानशष्दे पंचसाधारणरूपावगमात् सामान्यलक्षणार्थता ॥ यदा त्वनुगतमेव धर्मम् आरोहपरिणाहादिस्वभावमाचष्टे समानशब्दः, तदाविशेषलक्षणार्थ इति ॥ [ सूत्रयोजानाप्रदर्शनम् ] तत्र चेत्थं सूत्रयोजना-समानो धर्मः परिणाहादिः। तस्य *गुणत्वेन प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावातिविषयी कृतत्वात् । समानत्वमुपपद्यते। तस्योप पत्तिः- उपलब्धिः । अथापि सत्ता उपपत्तिशब्देनोच्यते। साऽप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति ॥ [संशयस्य धर्मिविषयकस्वम् ] . ननु ! समानधर्मः अर्थान्तरं धर्मिणः। न चार्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमर्हति-न-अर्थान्तरविशेषत्वात । अर्थान्तरविशेषस्तु धर्म्यवोच्यते, अर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव—साधारण धर्माध्यासितवपुषि धमिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव . * न हि गुणः सामान्यम् ॥ । तथा चा ननुगतस्यापि कुत्रचिदनुगमकत्वमनुभव बलात् ॥ 1 तच्च-ख, लब्धिः -ख, . ' पत्तिः-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy