SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् विभागजविभागवत् इति- -तत्र केचिदाहुः + सत्यमस्ति विभागेऽपि विभागजत्वम् । शब्दे तु विशेषो विवक्षितः ॥ द्विविधो हि विभागजो विभागः - कारणविभागपूर्वकः, कारणाकारणविभागपूर्वकश्च । कारणं समवायिकारणमत्राभिप्रेतम् । कारणविभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः ॥ 531 कारणाकारणविभागपूर्वकस्तु अङ्गुल्याकाशविभागात् हस्ताकाशविभागः ; हस्ताकाशविभागादपि शरीराकाशविभाग इति ॥ * शब्दस्तु नियमेनैव कारण विभागपूर्वकविभागप्रभवः - वंशदलविभागात् दलाकार्शविभागः; दलाकाशविभागा'च्चा' समवायिकारणात् शब्दो निष्पद्यत इत्यनेन विशेषेणास्येदृश विभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यत इति ॥ [ विभागजविभागानङ्गीकारपक्षः ] अन्ये तु विभागजं विभागममृष्यमाणाः यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते ॥ ननु ! किमिति विभागजं विभागं ते न सृष्यते ? अस्ति ह्ययं तत्सिद्धौ न्यायः- यदा ह्यवयवे कर्मोत्पन्नं अवयवान्तराद्विभागं करोति, न * तदाकाशादिदेशात् । यदा त्वाकाशादिदेशात्, न तदाऽअयवान्तरादिति स्थितिः ॥ * शब्दः - इत्यस्य विभागजेत्यादिः ॥ * आकाश देशोऽत्र अवयविदेशः विवक्षितः । aar, कदाचिदवयवैकदेशे च जायते ॥ 1 2 न्ति - ख. क्रिया हि कदाचित् पूर्णेsa
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy