SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ 519 नवममाह्निकम् [वैराग्यजननायापि न क्षणिकवादाद्यावश्यकता] अथ *अस्थाशैथिल्यजननाय 'सर्वं शून्य' 'सर्वं क्षणिक' 'सर्व निरा'लम्बन" इत्युपदिश्यतेतहि किमनेन मषोद्येन ! सत्यप्यात्मनि, सत्स्वपि स्रेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः । प्रत्युत प्राज्ञो मुमुक्षुः 'क्षणिकनरात्म्यशून्यतादिवचनं युक्तिबाधितमवबुध्यमानः वंचनामयमिव तदुपदेशमाशङकते ॥ स एष बुद्धिशून्यानां शून्यवादपरिग्रहः । प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥ तस्मात्परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् । विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ॥ [अपवर्गपरीक्षोपसंहारः] . तदेवमतदृशान दृश्यते ... जनस्य निःश्रेयससंपदागमः । अतो यथोक्तात्मसुतत्त्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये ॥ [ सांख्योक्तप्रक्रियायाः डपसंहारः] साडखयैर्यस्त्वपवर्गसाधन विधायुक्तःप्रकृत्यात्मनोः अन्यत्वा व गमोऽभ्युपाय इति स प्रागेव निर्वासितः । * आस्था-लौकिकवस्तुष्वासक्तिः ॥ + अद्वैतदृशा-विज्ञानाद्वैत-शब्दाद्वैत-ब्रह्माद्वैत-शून्याद्वैतदर्शनैः ॥ 1 त्मक-ख, धि-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy