________________
नवममाह्निकम्
517 व्यासज्य वर्तमानो हि न खल्ववयवान्तरैः।
वर्तते, तदसंवित्तेः, किन्तु वर्तत एव सः॥ तथा चाहुः - 'वर्तत 'इति' ब्रूमः, अनाश्रितस्यानुपलंभात् ॥
वृत्तिरेवंविधाऽन्यत्र क्वदृष्टेति यदुच्यते ।
प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ तस्मात् प्रत्यक्षत एवावायववृत्तेरवयविनः उपलब्धेः न तद्वत्तौ विकल्पानामवसरः॥
[अवयविग्राहकप्रमाणस्यानन्यथासिद्धत्वम् ] स्रक्सूत्रादिवृत्तिरपि तया दर्शनादभ्युपगता। तदियमवयविवृत्ति. रपोदशी दृश्यमाना किमिति नियते। न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदप वादः समस्ति ॥.
अर्दुष्टकारणोद्भुतं अनाविर्भूतबाधकम् ।
असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ? न च सेना वन वदवयविग्रहणं अभिधातुमुचितम्, अबाधितत्वात्, सेनादौ बाधकसद्भावात् ?
_[ सेनादिवैलक्षण्यं पटादेरवयविनः] - अपि च गजवाजिपदातिपीलुपलाशशिशपादिदर्शनस्य तत्र घटमानत्वात, तत्समवाये सेना वनादि प्रतीतिरुपपद्येतापि। इह तु किसमुदायविषयः पट प्रत्यय इति चिन्त्यम्। तन्तुससुदायालम्बन इति चेत्, तन्तु
* व्यक्तिषु जातिवत् ॥
1 एव-ख,
राधः-च,
'दि-च.
दि-च.