________________
516
. न्यायमञ्जरी न्धन त्वमपि न किंचिद्वक्तुं शक्यत इत्यपि वणितम्। क्वचिद्वा पृत नावना दो बाधकोपनिपातात् एकावगतिमिथ्यात्वात्, न सर्वत्र मिथ्यात्वकल्पना युक्तेत्यप्युक्तम्। किं वा तदस्ति, यत्सामान्यसमर्थनावमरे नाकथितम् । तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव, तद्ग्राहिणः प्रत्यक्षस्य निरपवादत्वात् ॥
[अवयविन्याक्षेपानां परिहारः] यत्तु देशभेदेनाग्रहणात्, *तदग्रहे तदुद्धयभावादिति-तत्रावयवाः श्रितत्वमेव निमित्तं, नासत्त्वम् ॥
देशभेदेन हि ज्ञानं, त द्देश स्य कथं भवेत्। . न हि कश्चित स्वतन्त्रोऽसौ अपि त्ववयवाश्रितः ।। यावतां ग्रहणोऽप्यस्मिन् बुद्धिर्भवति तावताम् । अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः॥ .. विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः।
तदावयविनाशो हि बुद्धौ विपरिवर्तते || अवयववविभागो शवयविनो विनाश हेतुः। तस्मिन् बुद्धया समुल्लिख्यमानेऽवयविविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यत?
[अवयवेषु अवयविनः व्याप्तज्यवर्तमानत्वम् ] वृत्तिश्चावयवेष्वस्य व्यासज्यवेति गम्यते। न प्रत्यवयवं तस्य समाप्ति य॑क्तिजातिवत् ।।
* तदग्रहे-देशभेदाग्रहे ॥ + तद्देशः-अवयवस्य यो देशः, स एवावयविनोऽपि ॥
-
1 म-ख,
ना-ख,
स्वेत-ख,
" भाग-ख