SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 515 'षट्केन युगपद्योगात्परमाणोष्षडंशता' इत्येवं विकल्प्यमाना विप्लवन्त एव। न च तैरतिसूक्ष्मैरेष व्यवहारोऽभिनिर्वर्त्यत इति । तस्माद्वाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपत्तेः विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् ॥ [अवयवातिरिक्तावयविसाधनम् ] तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः* कृपणतरा इव लक्ष्यन्ते। अपूर्व एष तर्कमार्गः, यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ॥ .. 'दृढेन चेत्प्रमाणेन बाधादिरहितात्मना । गृहीत एवावयवी किमेभिर्बालवल्गितैः ॥ .. अथ नास्ति प्रमाणेन केन चित्तदुपग्रहः । एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ॥ न च शक्नुयः पढ़े पदे वयमेभिरभिनवमल्पमपि किंचिदपाद्भः तदेव पुनःपुनः पृच्छद्भिः शाक्य हत कैस्सह कलहमतिमात्रं कर्तुम् ।। __[अवयविनि प्रमाणोपन्यासः ] 'स'विकल्पकं प्रत्यक्ष प्रमाणमिति साधितम् । निविकल्पकेनापि शब्दोल्लेखमात्ररहितं सविकल्पकग्राह्यमेव वस्तु गृह्यत इति च दशितम्। एकाकारविषयव्यतिरेकेण च तद्वद्धेरेककार्यत्वैकदेशाद्यन्यथासिद्धिनिब * वैभाषिकाः, माध्यमिका वा॥ + एतदेव-अवयवी नास्ति, प्रमाणाभावादिति ॥ 1 प्रकुर्व-ख, 2 नर्त-ख, अ-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy