SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ 514 न्यायमञ्जरी प्रतिचीनमंचलं यावद्विविचयन्नसौ तन्तुसन्ततिमेव केवलामुपलभते, न ततोऽतिरिक्तं पटावयविनम् ॥ [अवयिनः वृत्त्यनुपपत्तिः] वृत्त्यनुपपत्तेश्च । नैकत्रावयवे कात्स्येनावयवी वर्तते, तदन्येष्व. वृत्तिप्रसङात् । नेकदेशेनवर्तते, स्वारम्भावयवव्यतिरिक्तदेशाभावात । अभ्युपगमे वाऽनवस्थाप्रसङात्। यैरप्येकदेशैरवयवेष्वसौवर्तते, तेष्वपि कथं वर्तते अन्यरेकदेशः तेष्वपि अन्यैरिति नास्त्यन्तः। *असंबद्धस्त्वेकदेशैरवयवीतिः कथं तद्वारेण स्वारम्भ कैरपि संबध्येत। तस्मादभय्यपि नास्य वृत्तिरवयवेष्विति || [ धारणाकर्षणादिकं नावयविनः, किन्तु संघातस्यैव ] धारणाकर्षणादि तु अनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यत इत्यनैकान्तिकम्। एकाकारातु प्रतीतिविकल्पमात्रम्। एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिप्रभृतिष्विव सेनेति, धवखदिर. पलाशादिष्विव वनमिति, संचितेष्वभवयवेष्वेव घठ इत्यादि बुद्धि भविष्यती त्येवावयवावयवपर्यालोचनयाऽणुसंचयमात्रमेवावशिष्यते, नान्यत् ॥ [संघातोऽपिनातिरिक्तः] संचयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येवेत्यणव एवावशिष्यन्ते। परमाणवोऽपि * येषु नास्त्यवयवी, तेषां कथं तदवयस्वम् ; अतिप्रसङ्गात् ।। + न हि कार्पासादि अन्त्यावयवि ॥ 1 ते-ख, .र-ख, ३ प्रतीति-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy