SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ 513 नवममाह्निकम् कृतमतिवाचालतया चिरमपि निपुणैनिरूप्यमाणोऽतः । अर्थस्यैव न बुद्धः सिध्यति नीलादिराकारः ॥ एकश्च बोधः प्रमितिप्रमाण प्रमेयरूपाणि कथं बिभति ? • भिन्न प्रमाणात फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ॥ [ शून्यवादिभिः अवयवातिरिक्तावयविखण्डनम् ] ये तु ब्रुवते-तिष्ठतु तावत् प्रमाणमार्ग इति' प्रमेयमेव विकल्पयन्तो न बाह्ममयं कंचन निरपवादं प्रतिपद्यामहे । तथा हि-न तावदयं अवयवी घटादिरवकल्पते, अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि यस्माद्व्यतिरिक्तः, सः तदधिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते, घटदिव पटः। न चैवमवयवेभ्यः पृथग्देशो दृश्यते 'अवयवी। तदग्रहणे च तबुध्यभावात् । घटाग्रहणेऽपि पटो गृह्यते, न त्ववयवानुपलब्धाववयवीति कथं स तेभ्यो भिद्येत ॥ [ सर्वावयवैर्नेन्द्रियसन्निकर्षः] अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुंमाग्भागवतिन एव गृह्येरन्, न मध्यपरभागगता इति ॥ - बुध्या 'विभज्यमाने चानुपलम्भात्। यदा हि पटं पाणौ निधाय बुध्या विविनाक्ति, एष तन्तुः एष तन्तुरिति, तदा प्राच्यादंचलात्प्रभृति । अतिरिक्तावयविनिराकरणेन सर्वापलापस्सुसाध इति भावः ॥ __1 न-ख, ण-च, त्रं-ख, न-ख, वि-ख. 33
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy