SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ 512 न्यायमञ्जरी अनन्तत्वेऽपि खल्वासां *आरम्भे नियमः कुतः? असमंजस कारित्वे व्यवहारस्य विप्लवः ॥ धूमज्ञानसमुत्पादे धूमवासनयां कृते। कि तदा न जलज्ञानं जनयेज्जलवासना ॥ वासनाश्च वासनासन्तानारम्भहेतव एवं भवेयुः , न पुनरनुभवज्ञानमाधातुमुद्यच्छेयुः। सदृशात् सदृशोत्पत्तिरिति हि भवतां दर्शनम् ॥ [वासनाया आश्रयानुपपत्तिः] अपि च न निराधारा वासना आसते। न च भवत्पक्षे तदाधार: कश्चन संभवति, भङगुरत्वेन, ज्ञानस्य तदाश्रयत्वानुपपत्तेः। एकज्ञाना. श्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रयाभेदे तदानन्त्येता नियमश्च शतशाखः ।। __[मालयविज्ञानप्रवृत्तिविज्ञानभेदनिरासः ] न चालयविज्ञानं नाम किंचिदस्ति। सत्यपि तस्मिन्नशेषवासना. सहस्रसमाश्रये तत्क्षणिकत्वात, सकृदेव तथाविधवासनाकुसूलज्ञानविनाश: स्यात् । पुनरुत्पादेऽपि कथं तथाविधं ज्ञानमेव समुत्पाद्यत। त तु गवाश्वादिज्ञानक्र मनियमो भवेत् इति सर्वथा सङकटोऽयं पन्थाः। तस्मात् मृगतृष्णिकैषा तपस्विनां वासनात एव लोकयात्रालिद्धेः कि बाह्येनार्थे नेति ॥ * आरंभे-उत्तरज्ञानोत्पादने ॥ * वासना अपि बाह्यार्थानालम्ब्यैव हि लब्धस्वरूपाः । वासनापदस्य संस्कारपर्यायत्वे तु न हानिः ।। स्य-च, ३ इव-च, त्यम-ख. 1 सा-च, दे-ख, क्र-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy