________________
नवममाह्निकम
SIL [ वासनाया दुनिरूपत्वम् ] ग्यच्चोक्तं वासनाभेद एव ज्ञानवैचित्र्यकारणम्, इतरेतरकार्यकारणभावप्रबन्धश्च बीजाङकुरवदनादिः ज्ञानयासनयोरिति-तदप्यघट. मानम्-केयं वासना नाम? ज्ञानादव्यतिक्ता चेत्, साऽपि स्वच्छरूपत्वात् न ज्ञानकालुध्य कारणं भवेत् । ज्ञानव्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ॥
. [वासनायास्संस्काकाररूपस्वम् ] अपि चे वास'ना नाम विषयानुभवसमाहितः संस्कार इिति लोके प्रसिद्धिः। संस्कारश्च यदनुभवघटितः, तत्रैव क्वचिदवसरे स्मरण मुपजनयति। न पुनरसदेव वैचित्र्यमिदमीदृशमावहति ॥ ___किंच भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्या वासकभावोऽपि निराकर्तव्यः। स्थायिनो हि भावास्तिलादयः स्थायि• भिरेव चम्पकादिभिः वास्यन्ते । न तत्पद्य सपद्येव विनश्यद्भिः ज्ञानः • तादृश्येव ज्ञानानीति॥ .. निरन्वयविनाशाच्च न तदंशोऽनुवर्तते ।
यतः कथश्चिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ ___
[वासनावादेऽव्यवस्थापत्तिः ] अपि च एकत्र देवदत्तसन्ताने वासनातः सहस्राणि ज्ञानवैचित्र्यंका. रोणि भवेयुः। न हि गोवासनातो हस्तिज्ञानमुदेति ॥
* ज्ञानाव्यतिरिक्तस्वादेव स्वच्छत्वम् ॥
'ज्ञानानि' इति कर्तृ ॥
1 यच्चत्थं-ख,
ना-ख,
मनुभव-खे,