SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ 510 न्यायमञ्जरी नार्थासंस्पशिता चास्य तावता व्यवतिष्ठते । 'यथै तदात्मकं वस्तु तथा शक्नोति भाषितुम् ॥ [सर्वस्य वस्तुनः अनेकरूपस्वम् ) परिवाटप्रभृतीनां च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वात्* नावहन्त्यर्थशून्यताम् ॥ कि न भक्षयितुं शक्या नारी कौलेयकेन सा । कि वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवाद्वा केन रूपेण सा विशिष्येत योगिनः । धीत्रयं तु न सर्वेषां अभावात् सहकारिणः ।। प्रतिप्राणिनियतानेकविधवासना भेदसहकारिसापेक्षो. हि त'स्य तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् ॥ .. [अर्थांनां वासनाकल्पितत्वासंभवः ] यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति, कि अर्थकल्य नया ? अयि साधो! किमद्यापि न परिहर सौ. सुचिरं 'गुणितां कल्पनावाचोयुक्तिम् । न ह्यर्थः कल्प्यते, अपि तु प्रतिभासत एव । बहुरूपस्य तु तस्य एकतमरूपपरिच्छेदनियमे किमपि वासनादि कारणं क्वचित् कल्प्यते। कस्तावताऽर्थनिह्नवस्याव"सर :॥ * अनेककार्यकारित्वादित्यर्थः॥ * गुणितां-अभ्यस्ताम् ॥ स-ख, स्य-ख. 1 असौ-ख, 'वा-च, ति-च, काश-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy