________________
509
नवममाह्निकम्
तदेवं शाक्योक्तयुक्ति'शक'लदौर्बल्यात् सर्वत्र विच्छेदप्रतिभासात् ज्ञानस्य स्दतो वैचित्र्यानुपपत्तः अर्थस्यैवायमाकार इति सिद्धम् ॥
[ एकस्मिन्नर्थे न विरुद्धाकारोलेखः] यत्तु अर्था कारपक्षे चोदितं-एकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरूद्धाकारसमावेशो न युक्त इति-तत्रोच्यते--अनुपपन्नमिति नः क्व संप्रत्ययः, यत् न प्रमाणेनावगतं* विरुद्धमपि तदवबुद्धयामहे, यदेकत्र निविशमानं न पश्यामः । तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते, तत् कथमनुपपन्नं स्यात् ? कथं वा विरुद्धमिति ॥ .
[नानाकारेवन्यतमस्य कल्पितत्वसंभवः । अथैकं सम्यक्प्रमाणपरिनिश्चितरूपं, इतरत् काल्पनिकमिति प्रतीयते -तदेवमस्तु, · को दोषः ? . दृष्टश्च चित्रादावनेक वर्ण समावेशः। न चैकत्र विरोधं अविरोधंवा दुष्टवा सर्वत्र तत्कल्पनमुचितस्। अबा. धितावगतिनिबन्धना हि वस्तुस्थितयो भवन्ति, न कल्पनानिमिताः ।।
[शब्दसाधुस्वं व्याकरणाधीनम् ] अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया।
शब्दप्रयोगसाधुत्वं अन्वाख्यायेत केवलम् ॥ 'दाराः' इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वंहवं -त्ब वा विद्यते । शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ॥
* पदानां तत्तल्लिङ्गकत्वं व्याकरणशास्त्रसिद्धम् । विरूद्धधर्मवत्त्वं तु भानमात्रम् ; न वस्त्वन्वयि ॥
अर्थेषु व्यक्तिभेदेन
.
कौशल-ख,
आ-ख,
वि-ख,
बल-ख.