________________
508
यच्चोच्यते
'यदन्तर्ज्ञेयरूपं तत् बहिर्वदवभासते '
इति - सेयं विपरीतख्यातिरेवाङगीकृता स्यात् । तद्वरं सैव तपस्विनी साधीयसी ॥
- न्यायमञ्जरी
[ अर्थस्य ज्ञानरूपत्वासंभव: ]
अथ कथ्यते— ग्रहकात् * सत्यं विच्छिन्नं ग्राह्यं; तत्तु ज्ञान' रूपमेवेति -तत्र विच्छिन्नमिति प्रियमावेदितम् । ज्ञानत्वे तु तस्य का युक्तिः ? न च ज्ञानयोः युगपदुपनयोः क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते । यौगपद्ये सव्येतर गोविषाणवत् ग्राह्यग्राहक नियमाभावात् । क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राहकं * चेत्-तदुत्पत्तितद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जहात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तदांपि सैव वार्ता । तावत्कालमवस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम सामान्यं ग्राहाग्राहकयोरनुगतम्, गोत्वमिव शाबलेयादौ, विभाति । अतो विच्छिन्नश्चेत् ग्राहकात् 'ग्राह्यांशः सोऽर्थ एव भवेदिति न
ज्ञानस्यायमाकारः ॥
[ आकारस्य संसर्गधर्मत्वाभावः ]
यत्तु संसर्गधर्मः आकारो न भवतीति भाषितं, तद्युक्तमेव
न कुण्डदधिवत् कश्चित् संसर्गोऽस्त्यर्थबोधयोः । तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥
*
सत्यम् – इत्यर्धाङ्गीकारे ॥
** ग्राह्यकस्य ग्राह्यस्य च उभयोः ज्ञानरूपत्वाङ्गीकारात् ज्ञानयोः इति ।।
1 त्वज्ञान- ख,
2 का - ख,
• स्थि - ख.
4 ग्राह्यरत्सोऽन्य - ख.