________________
507
नवममाह्निकम्
[ असत्ख्यातिवादे विशेषः] ननु ! तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते ? देशान्तरे हि सन् असन् वा तत्र तावन्नास्त्येव सोऽर्थः। न च *द्वयोरस. त्वयोः किचिद्विशेषः । देशकालावपि कि सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि तुल्यो दोषः-मैवम-भवतोऽप्यसत्ख्याति. वादिनः कि सर्वत्रैव तदर्थासत्त्वं संमतम, उत तद्देश एव? तत्रासन्नि. धानमात्रेण तावत् क इव तव । स्वार्थ: ? सर्वत्रासतस्तु प्रतिभासे कुतस्त्य एष नियमः-यत् असत्त्वाविशेषेऽपि रजता' घेवासत् प्रतिभा'ति, न खरविषाणादीति ॥
अयं तु द्वयोरसत्त्वयोविशेषः-देशान्तरादिषु सतोऽर्थस्य स्मरणादुपारोहेण प्रतिभासमानता युज्यते, न त्वेकान्तासत इति । एवं देशकालयोरपि सदसत्त्वबिकल्पचोद्यं परिहर्तव्यम् ॥
अतश्च किंचिदपि नात्यन्तासदर्थग्नाहि ज्ञानमस्तीति कि दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत? तस्मान्नासत्ख्यातिः॥
[आत्मख्यातिनिरासः] ___ आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिः वर्तते। तत्र च बहुशः कथितं-ग्राहकाद्विच्छिन्नमेव ग्राह्यमवभासते 'नीलमिदम्' इति, न तु तदभेदेन 'नीलमहम्' इति । भ्रान्तिज्ञानेषु तदर्था सन्निधानात् भान्तत्वमस्तु, नात्मतत्त्वग्रहणमिति ॥
* द्वयोः-तद्देशासत्त्वदेशान्तरासत्वयोः ॥
असख्यातिरूपः॥
1 दि संप्र-ख.
थे-ख,