SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ 506 न्यायमञ्जरी प्रसृताश्च नयनरश्मय एव सूर्यांशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकारा प्रतिभान्तीति ॥ [मानसविभ्रमाणामपि सालम्बनत्वम् ] अन्तःकरणदोषेण विभ्रमो यस्तु जायते। असत्यपि* महेलादौ पुष्पेषुमुषि'तात्मनाम् ॥ सोऽपि कश्चित् विषयदोष सहायो . भवति। स चालम्बन एव (प्र. सं. 228) ॥ तस्याः पाणिरिति ज्ञानं यथा' भवति कुत्रचित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे || अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः। मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥ तस्यामपि रागादिवासनाब लोपप्लवमान स्मृत्युपस्थापितदेशकालव्यवहितोपलब्ध पुरन्ध्रीरूपादिसमुल्लेखः, न त्वेकान्तासतः खरविषाणादेरिव ॥ प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकार.स्योल्लेखः ॥ जा'लज्वलागळवह्निद्रव द्रव्या दिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ।। तदेवं भ्रान्तिबोधेषु नास्त्यत्यन्तासतां प्रथा । देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।। * महेला–महिला। पुष्पेषुः-कामः ॥ * जालम्-इन्द्रजालम् ॥ 1 दि-च, । ज्व-ख, 'हा-ख, ' संवृत्त्याधु-ख, दघ्रा-ख, द्वया-च. पूर्वपु खः ।
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy