________________
नर्वेममाह्निकम्
505 तथा हि-भ्रमझानेषु चतुष्टयो गतिः-आत्मख्यातिः, असत्ख्यातिः, अख्यातिः, विपरीतख्याति * ||
तत्र 'रजतमिदम्' इति सामानाधिकरण्येनैकार्थप्रतिभासात् , तन्मते च संवित्तेरपरोक्षत्वात् रजताधिगमाभिमानेन तदथिनस्तत्र प्रवृत्तः, बाधकप्रत्ययस्य तथाविधबोधनिषेध'परत्वेन प्रादुर्भावात् न तावदख्या. तिरिति प्रागेव (प्र. सं. 456) प्रासाधितमेतत् ।।
[असत्ख्यातिनिरासः ] असख्यातिरपि नास्ति, एकान्तासतः स्वपुष्पादेः प्रतिभासायोगात् । देशकालव्यवहितानुभूतपूर्वपदार्थविषय एवं भ्रान्तोऽपि प्रत्ययः प्राणभृतां भवति, न त्वत्यन्तासदर्थविषयः ।।
• सर्वेषां भ्रमाणां सालम्बनत्वम् ] तथा हि-द्विविधा भ्रान्तिः- बाह्येन्द्रियजा, मानसी च। तत्रं बाह्येन्द्रियजे भ्रमज्ञाने विषयदोषात् , इन्द्रियदोषाद्वा समुत्पद्यमाने न क्वचित् निरालम्बनता दृश्यते। भास्वररूपसादृश्यन हि विषयदोषेण| शुक्तिका रजतमिति परिस्फुरति। मरुस्थलीपतितो त्फलितंच सावित्रं तेजः तरलतरङगसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते। तिमिरसीमन्तितनयनवृत्त चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति । तिमिरकणनिकरविवरविरचित
* इतरख्यातीनामत्रैवान्तर्भाव इति तात्पर्यम्। वस्तुतस्तु अख्यात्यन्यथाख्या. त्योरेव सर्वेषामन्तर्भावः॥
* भ्रमहेतुस्वात्तस्य दोषत्वेन कथनम् ॥ * तिमिरं-नयनदोषविशेषः। न तु तमः ॥
1 ध-च,
स्थि-चः