SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ 504 न्यायमञ्जार [ सहोपलभात् न ज्ञानार्थयोरभेदः] यदप्यवणि सहोपलंभनियमादभेदो नीलतद्धियोः' इति-तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः ।। अथ 'एकोपलंभनियमात्' इति हेत्वर्थो विवक्षितः-तदयमसिद्धो. हेतुः, नीलादिग्राह्यग्रहणसमये *तद्ग्राहकानुपलम्भात्। ग्राहकाकारानु वेधरहिततद्विच्छिन्न बाहनामात्रप्रतिभास एवायं 'नीलमिदम् इत्या दिः दर्शितः॥ - [सहोपलंभोऽप्य सिद्धः ] क्वचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्नाहकावमर्शनपि दृश्यते-- 'न स्मरामि, मया कोऽपि गृहीतोऽर्थस्तद्वा' इति। तदेवमितरेतरः विभक्तज्ञानार्थाकारसंवेदनात कथम् ॥ . एकोपलम्भनियमादभेदो नीलतद्धियोः' . इत्युच्यते। 'नीलतद्धियोः' इति वदता भवताऽध्येष भेद एवं निदिश्यते ॥ परमतानुवादमात्रमेतदिति चेत्-न-अभेदे पृथङनिर्देशस्याप्यघट. मानत्वात् । तस्मादपि न ज्ञानस्यायमाकारः॥ [ज्ञानार्थयोः भेदः अनुभवसिद्धः ] यदप्युक्तं-असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यत इति तस्यैवायमाकारो युक्त इति तदपि दुराशामात्रम -सर्वत्र ज्ञानाद्विच्छिन्नस्व ग्राह्याकारस्य प्रतिभासनात् ॥ * तद्ग्राहकस्य-ज्ञानस्य अनुपलभात् ॥ 1 नो-ख, दि-ख, चः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy