________________
नवममाह्निकम्
503 · यदुच्यते-किमिति नीलमेव कर्मकारकम्, किमिति वा कर्मविषयमेव ज्ञानमिति-तत्र वस्तुस्वभावैरुत्तरं वाच्यम् ॥
*आकारमपि च ज्ञानमुपाददानं 'कर्मकारक स्यैव कथमुपाददीत, न कारकान्तरस्य? इत्यत्रापि वस्तुस्वभाव एव शरणमिति ॥
[ज्ञान प्रति विषयस्य कारणत्वम् ] अर्थस्य च ज्ञानजनकत्वं अन्वयव्यतिरेकाभ्यामवगम्यते ॥
यदा हि देवदत्तार्थी कश्चिद्वति तद्गृहम् । तत्रासन्निहितं चैनं गत्वाऽपि न स पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते ।
तत्रं तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥ अनागते देवदत्त न देवदत्तज्ञानमुदपादि, तस्मिन्नागते च तदुत्पन्न. मिति तद्धावभावित्वात् तज्जन्यं तदवसीयते। इत्थं च तज्जन्यत्वेनैव तत्र नियमसिद्धेः अलमाकारकल्पनया ॥ ___ एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता। साधकतमत्वं तु सामग्रयाः प्रमाणसामान्यलक्षणे निर्णीतमेव ॥ . यस्तु लोकिको व्यपदेश उदाहृतः सोऽपि व्यभिचरति। 'नीलोऽर्थोऽयम् , यतस्तद्विषयं ज्ञानमुत्पन्नम्' इत्यपि न व्यपदिशन्ति लौकिकाः ? तस्मादर्थे सत्यपि साकारं ज्ञानमेषितव्यमिति यदुक्तंतदनुपपन्नम् ॥
* ज्ञानं च आकारम् उपाददानमपि–इत्यन्वयः ।। * ज्ञानं हि गुण । न हि द्रव्यस्येव तस्याकारः संभवतीति सारम् ॥
1 अर्थ-ख,
2 क-ख,
३ न तत्-ख,
न न-च.