________________
502
भ्यायमञ्जरी [ अर्थस्य कल्पनीयत्वं न ] यत्पुनरभ्यधायि-ज्ञानाकारपक्षे कल्पनाऽल्पीयसीति-तत्र यथोक्त. नीत्या प्रत्यक्षगम्ये बा' ह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी। कीदृशं वा तदल्पत्वम्. महत्त्वं वेति ॥
[अर्थापलापे ज्ञानस्याप्यपलापः स्यात् ] उभयसिद्धत्वमपि यदवादि ज्ञानस्य-तत्र यदि प्रमाणायत्ता वस्तु स्थितिः, अर्थोऽप्युभयसिद्ध एव । इच्छाद्वेषनिबन्धनायां तु वस्तुस्थिती ज्ञानमपि कथमुभयसिद्धं* स्यादिति यत्किचिदेतत् ॥
[ ज्ञानाकारमन्तरापि प्रतिकर्मव्यवस्थासिद्धिः ] यत्पुनरिदमभिहितं-अभ्युपगम्यापि बाह्यमर्थं अप्रत्याख्येयः प्रति. कर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति तदपि न सांप्रतम्-प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः ॥
यद्यपि अनेकसन्निधाने नीलज्ञानमुपजायते। यद्यपि च बोध स्वरूपत्वमशेषसाधारणम् , तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते। चक्षुरादिनाऽपि तज्जनितमिति चेत्-सत्यं जनितम्-न तु 'कर्मणा सता। नीलेन तु कर्मभूतेन तदुत्पाद्यत इति तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभाव कृत' एव। आकारपक्षेऽपि समानोऽयं पर्यनयोगः ॥
* शून्यवादिना विवाद इति शेषः । न हि विवादाविषयः कश्चिदर्थो वर्तते ॥ + प्रकारान्तरेण-विषयीकरणमात्रेण ॥
1 ह्ये-च,
'द-ख, च, ध,
क-ख,
त-ख. .