SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 501 न चा*वि'बन्धमात्रेण प्रतीतिरव'कल्पते । , उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ।। न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे। 'ज्ञातो मयाऽयमर्थः' इति कालान्तरे। तद्विशिष्टार्थग्रहणदर्शनात् ॥ शुक्लः पट इति ज्ञाने यथाऽसौ भाति तद्गुणः । तथा ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः॥ न विशेष्ये च संवित्तिः अगृहीतविशेषणा। नानु'सायधियं वेत्थं प्रतीयेत 'क'माग्रहात् ॥ न च नित्यपरोक्षा बुद्धिः अनुमातुमपि न शक्यत इति च विचारितमेव ॥ . तदलमनया कथया। किमिति शाक्यसुत्सृज्य श्रोत्रियमिदानी मनुयुंज्महे ॥ __ • [ज्ञानाग्रहणेऽपि विषयग्रहणम् ] . अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनात् ज्ञानग्रहणपूर्वकमर्थग्रहणमिति -तन्न सार्वत्रिकम, अपि तु क्वचि देव ज्ञान विशिष्टार्थसंवेदनात् तथाऽभ्युपगम्यते। तस्मात् अर्थग्रहणात् पूर्व ज्ञानस्यानवभासात् निरा. कारावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् ॥ * अविबन्धः-अप्रतिबन्धः । प्रतिबन्धकाभावमात्रं न हि कार्यजनकम् ॥ । कालान्तरे-अनुव्यवसायकाले ॥ * अनुसायः-अनुव्यवसायः ।। मा-ख, ___1 वि-ख, । कश्चि-च, भ्र-ख, गम्य-ख, निष्ठा-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy