________________
500
भ्यायमञ्जरी अर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने तु श्रोत्रम्। दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते, ग्राहयति चार्थम् ॥
इयांस्तु विशेषः - घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते । आलोकग्रहणे तु निरपेक्षमिति। नैतावता दीपस्य स्वप्रकाशता स्यात् । *इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः ॥
ज्ञानस्य परप्रकाशक त्वमेव दृश्यते, न स्वप्रकाशकत्वम्, अर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात् ।।
मुधैव नस्मा गणितस्त एते
त्रयः प्रकाशाः स्वपरप्रकाशाः । प्रदीपबोधध्वनिनामधेयाः ।
विभिन्नसामग्रयभिवेद्यवेदकाः ॥ आत्मप्रत्यक्षवादिनां तु अवस्थाभेदेन ग्राह्यग्राहकांशयो/दो विद्यत एवेति सर्वथा न स्वप्रकाशं ज्ञानम् ॥
[अर्थग्रहणवेलायां न ज्ञानग्रहणसंभवः ] . यदप्यभि हितं-उत्पद्यमानमेव ज्ञानं अनपेक्षत्वात', अप्रतिबन्धत्वाच्च तदैव गाते, न वा कदाचिदिति-तदप्यसांप्रतम्-तदानीं तद्ग्रहण. सामग्रयभावात् ॥
* इत्थं च-सामग्रीन्यूनतामात्रेण। मार्जारादीनामालोकापेक्षाया अभावेन, तेषां घटादयोऽपि स्वप्रकाशा भवेयुः॥
+ 'पश्यत्यास्मानमारमना' इत्यादौ हि कर्तृत्वकर्मत्वकरणत्वादिकं उपाधिभेदेन स्पष्टम् ॥
1 त्रादि-ख,च, विज्ञा-ख.
श-ख,
द्-ख,
शाः-ख,