________________
499
नवममाह्निकम्
गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपव'द्वेति वक्तव्यं, यदि धूमवत् ॥ भवेदर्थानुमेयत्वं तत्त्वयैव च दूषितम्। आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥ घटं दो पेन पश्यामीत्यस्ति द्वितयवेदनम्। न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥
.
द्वयग्रहः ॥
.
[स्वप्रकावस्त्वसंभवः ] यदपि. प्रकाशत्वात् ज्ञानस्य प्रदीपवत् पूर्व ग्रहणमुक्तम्-तदपिव्याख्येयम्-प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशः, तस्य भावः प्रकाशत्वमिति-तत् चक्षुरादिभिरनैकान्तिकमुक्तमेव ॥
अथ प्रकाशन प्रकाशः, तहि प्रकाशत्वादिति असिद्धो हेतुः। न ह्यर्थ ग्रहणकाले बुद्धेः प्रकाशनमस्ति ॥
अथ प्रकाशशब्दो बोधपर्याय एव। प्रकाशत्वात 'बो'धरूपत्वादित्यर्थः, तदा साधन विकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वा. भावात् । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः, स्वतः प्रकाशस्य कस्य चिदप्यदृष्टत्वात् ॥
[स्वप्रकाशपदार्थस्वरूपम् ] नन् ! ज्ञानशब्ददीपाः त्रयः 'स्व'परप्रकाशा इत्याहुः-तदयुक्तम्शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामनयन्तरसव्यपेक्षत्वात्। शब्दः
* अयोधरूपस्याप्यर्थप्रकाशकत्वं दीपादेईष्टम् ॥
पंच-ख,
५ प्र-ख,
न बो-च,
__1 च्चे-ख, । प्रकाशाः स्व-च.