________________
498
भ्यायमञ्जरी प्रकाशयतीति-सत्यम्-चक्षुर्जन्यः प्रकाशः ज्ञानमिष्यते। स तु प्रकाश रूपादिविषयप्रकाशः, न प्रकाशप्रकाशः । न हि चक्षु'षा प्रकाशा प्रकाश्यते, अपि तु रूपं प्रकाश्यते। तत्र यद्रूपमुच्यते, स विषयो ग्राह्यः; यत्तत्प्रकाशते इत्युच्यते, स प्रकाशः ज्ञानं ग्राहकम्। * तदुत्पत्तिमात्रेण च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते ॥
[ज्ञानप्रकाशे बाह्यविषयानवभासप्रसङ्गः] ननु ! उक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते--
'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति' इति-तदयुक्तम्-'अप्रत्यक्षोपलम्भस्य च प्रत्युत अर्थदृष्टिः प्रसि. द्वयति। उपलम्भोत्पाद एव अर्थदृष्टिः, न पुनरुपलम्भदृष्टिः ॥
ननु ! उपलब्धेरग्रहणे तदुत्पावनुत्पादयोः अविशेषात्, अनुत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वसर्वज्ञत्वप्रसङगः-तदिदमतिसुभाषि. तम् - अर्थप्रकाशात्मैव खलूपलम्भः। स कथ मुत्पन्ना दनुत्पन्नो न विशिष्येत । तस्मात् अर्थप्रत्यक्षीकरणात्मकत्वात् ज्ञानस्य तदुत्पाद एवार्थप्रत्यक्षता, न तद्ग्रहणमिति अगृहीतमेव ज्ञानमर्थप्रकाशक मिति युक्तमं ॥
[ज्ञानाग्रहण एवार्थग्रहणम् ] यत्तु उपाय त्वात् ज्ञानस्य पूर्व ग्रहणमुच्यते तत्, चक्षुरादिभिरन। कान्तिकमित्युक्तम् ।।
* मात्रेणेति-स्वरूपसदेव ज्ञानमर्थप्रकाशकम्, न तु ज्ञातं सत्,, चक्षुरिन्द्रियवदेव ।
मनु-ख)
___1 षः-ख, । दुत्पन्नेन विशे-ख,
'त-ख, द उ-ख,
अरूप-ख: