________________
नवममाह्निकम्
497 अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणम्। बोधस्य तु तद्ग्राहकस्य तदा किंकृतं ग्रहणमिति चिन्त्यम्। न बोधान्तरनिबन्धनम्, अनवस्थाप्रसङगात् । नापि स्वप्रकाशं ज्ञानम्, अहं नीलमित्यप्रतिभासात् ॥
[अर्थस्य प्रकाशसंभवाक्षेपः] ननु ! नैव ग्राह्यग्राहकयोरन्यत्वमिति । योऽयं ग्राहावभास इति भवताऽभ्युपगतः, स एव ग्राहकावभासः । ग्राहकादन्योऽहि ग्राह्यः जडात्मा* भवेत् । ग्राहकस्तु प्रकाशस्वभावः, ग्राहकत्वादेव। द्वय. प्रतिभासश्च नास्तीत्युक्तम् । तत्रान्यतरस्य प्रतिभास ने जडप्रकाशयों कतरस्यावासितुं युक्तमिति चिन्तायां, बलात् प्रकाश एव प्रकाशते, न जंडः। निराकारश्च न प्रकाशः प्रकाशत इति तस्मिन् साकारे प्रकाश्यमाने. कुतो जडात्मा तदतिरिक्तोऽर्थः स्यात् ॥
[अर्थप्रकाशे ज्ञानप्रकाशासंभवप्रदर्शनम् ] तदिदमपेशलम-उयायेनोपेयनिह्नवस्वाशक्यकरणीयत्वात्। रूपस्य हि प्रकाशकं चक्षुः। न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपनोतुं शक्यते। तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनः तद्विपरीतस्वच्छस्वभावं ज्ञानं प्रकाशकम्, 'न तदेव चक्षुर्वत् तदाऽवभासित. महति च ॥
[ज्ञानानवभासेऽपि अर्थप्रकाशसंभवः] ननु ! चक्षुर्वत् उपायत्वं ज्ञानस्य प्रकाशस्वभावत्वात्। चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते, न चागृहीतः प्रकाशः प्रकाश्यं
ग्राहकस्याजडत्वात् ॥
1 काश-ख,
श-ख,
स्व-ख.