________________
496
इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् । परिहृत्य दुःख' सन्तति अभयं निर्वाणमाप्नोति ॥
[विज्ञानाद्वैतनिरास: ]
अत्राभिधीयते - न खल्वेक एव बोधात्मा ग्राग्रह' क्तयो' भयस्वभावो भवितुमर्हति । ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेन एकत्र समावेशानुपपत्तेः । तथा हि-नीलज्ञानम्, पीतज्ञानम्, शुक्लज्ञानमिति नीलपीताद्युपजननापायेऽप्यनुवर्तमानबोधरूपतया नीलादिविलक्षणमन्वयव्यतिरेकाभ्यामवधार्यते ॥
अपि च ज्ञानम् अहंकारास्पदम् आनन्दादिस्वभावं * स्वकर्मणि च . सव्यापारमिव भवद्भिरभ्युपगतम् । अर्थस्तु नैवमात्मक इति कथमनयोरभेदः ॥
[ प्रतीयमानः आकार: अर्थस्यैव ]
यद्यपि ज्ञानमिदम्, अयमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति, पं तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश्य* एव प्रतिभाति, न प्रकाशकः । इदं नीलमिति ग्राहकाद्विच्छिन्न एव ग्राह्याकारोऽवभासते, न त्वहं नीलमिति तदैक्येनावभासोऽस्ति इति ॥
. न्यायमञ्जरी
* स्वकर्मणि - स्वस्य स्वेन विषयीकरणे । स्वप्रकाशं हि ज्ञानम् । स्वप्रकाश मित्युक्ते त्रिपुटीरहितमित्येवार्थ: । इतरस्तु व्यावहारिकम् ॥
+ आकारद्वयाप्रतिभासमात्रेण आकारद्वयाभावः न सिद्ध्यति । प्रतीयमानस्वाकारः अर्थस्यैव, बाह्यतयाऽनुभवात् । आन्तरं तु ज्ञानम् अनुव्यवसाय -
गम्यम् ॥
1 संसृ-ख,
2 को - ख,
·
3
णा-ख, घ,
श - ख.